भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम्
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् आदिमध्यान्तरहितं भेषजं भवरोगिणाम्
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम्
लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम्
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः
घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः
सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा
स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम्
असंभवे तु द्रव्याणां यथासंभवसंभृतैः केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम्
कलशेनाथ शंखेन वर्धन्या पाणिना तथा सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम्
पवमानेन रुद्रेण नीलेन त्वरितेन च लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः स्नापयेद्देवदेवेशं शिवेन प्रणवेन च
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात्
अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित्
कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना संमृज्य वाससा दद्यादंबरं चोपवीतकम्
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम्
पुनश्चाचमनीयं च मुखवासं ततः परम् मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम्
भूषणानि पवित्राणि माल्यानि विविधानि च व्यजने चामरे छत्रं तालवृंतं च दर्पणम्
दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः
त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत्
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा
ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत्
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत्
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम्