राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम्
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् केसराणि च वामाद्या रुद्रावामादिशक्तिभिः
बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम्
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम्
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम्
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक्
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ
अथवा परिकल्प्यैवमासनं मूर्तिमेव च सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा
आवाहयेत्ततो देव्या शिवं परमकारणम् शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम्
कारणं सर्वलोकानां सर्वलोकमयं परम्
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम्
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् आदिमध्यान्तरहितं भेषजं भवरोगिणाम्
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम्
लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम्
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः
घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः
सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा
स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम्
असंभवे तु द्रव्याणां यथासंभवसंभृतैः केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम्
कलशेनाथ शंखेन वर्धन्या पाणिना तथा सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम्
पवमानेन रुद्रेण नीलेन त्वरितेन च लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः स्नापयेद्देवदेवेशं शिवेन प्रणवेन च
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात्
अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित्
कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना संमृज्य वाससा दद्यादंबरं चोपवीतकम्
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम्
पुनश्चाचमनीयं च मुखवासं ततः परम् मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम्
भूषणानि पवित्राणि माल्यानि विविधानि च व्यजने चामरे छत्रं तालवृंतं च दर्पणम्