मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम्
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत्
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे
अग्निकार्यावसानं च सर्वत्रैव समो विधिः अथ चिंतामयं सर्वं समाप्याराधनक्रमम्
लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत्
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम्
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत्
प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् तथैवाचमनीयस्य पात्रं चेति चतुष्टयम्
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत्
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा
स्नानोदके सुगन्धादि पानीये च विशेषतः शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत्
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् जातिकंकोलकर्पूरबहुमूलतमालकान्
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके
कुशपुष्पयवव्रीहिबहुमूलतमालकान् प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम्
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत्
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् चामीकराचलप्रख्यं सर्वाभरणभूषितम्
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम्
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम्
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः
संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये
पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत्
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि
तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् धवलं पञ्चफणिनं लेलिहानमिवाम्बरम्
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात्