ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम्
अकामः कामसंयुक्तो बन्धायैव भविष्यति तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत्
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः बहिः कर्मकरा यद्वन्नातीव फलभागिनः
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम्
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान्
नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा
बहिर्यागोपचारेण देवं देवीं च पूजयेत् अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा
व्याख्यां पूजाविधानस्य प्रवदामि समासतः शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु
अंगमभ्यंतरं यागमग्निकार्यावसानकम् विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत्
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ध्यात्वा विनायकं देवं पूजयित्वा विधानतः
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा आराध्य मनसा सम्यगासनं कल्पयेद्बुधः
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम्
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् सर्वलक्षणसंपन्नं सर्वावयवशोभनम्
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम्
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम्
वरदाभयहस्तं च मृगटंकधरं हरम् भुजंगहारवलयं चारुनीलगलांतरम्
सर्वोपमानरहितं सानुगं सपरिच्छदम् ततः संचिंतयेत्तस्य वामभागे महेश्वरीम्
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम्
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम्
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम्
हेमारविंदं विलसद्दधानां दक्षिणे करे दंडवच्चापरं हस्ते न्यस्यासीनां महासने
पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् एवं देवं च देवीं च ध्यात्वासनवरे शुभे
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा