विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत्
नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम्
शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः
कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः
तपोयज्ञरतो भूत्वा जायते नात्र संशयः तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः
जपध्यानरतो भूत्वा जायते भुवि मानवः जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम्
अकामः कामसंयुक्तो बन्धायैव भविष्यति तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत्
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः बहिः कर्मकरा यद्वन्नातीव फलभागिनः
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम्
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान्
नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा
बहिर्यागोपचारेण देवं देवीं च पूजयेत् अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा
व्याख्यां पूजाविधानस्य प्रवदामि समासतः शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु
अंगमभ्यंतरं यागमग्निकार्यावसानकम् विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत्
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ध्यात्वा विनायकं देवं पूजयित्वा विधानतः
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा आराध्य मनसा सम्यगासनं कल्पयेद्बुधः
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम्
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् सर्वलक्षणसंपन्नं सर्वावयवशोभनम्
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम्
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम्