सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः
शिवलोकप्रदा शैवास् तथा ऽभीष्टफलप्रदाः नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ
केदारोदकपानं च स्नानं च ज्ञानदं विदुः गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ
धर्मलोके दंतिलोके महाभोगप्रदं विदुः कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ
विष्णोर्वचनमहात्म्यात्सर्वाभीष्टप्रदं विदुः वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके
नर्मदायां नदीस्नानाद्विष्णुलोकम्वाप्नुयात् सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात्
गंगायां माघमासे तु तथाकुंभगते रवौ श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा
वंशद्वयपित्ःणां च कुलकोट्युद्धरं विदुः कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ
तत्तत्तीर्थे च तन्मासि स्नानमिंद्रपदप्रदम् गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः
तत्कालकृतपापस्य क्षयो भवति निश्चितम् रुद्रलोकप्रदान्येव संति क्षेत्राण्यनेकशः
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत्
सदाचारेण सद्वृत्त्या सदा भावनयापि च वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत्
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा
मानसं च तथा पापं तादृशं नाशयेद्द्विजाः मानसं वज्रलेपं तु कल्पकल्पानुगं तथा
ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति वाचिकं जपजालेन कायिकं कायशोषणात्
दानाद्धनकृतं नश्येन्ना ऽन्यथाकल्पकोटिभिः क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः
भोजांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते
देवानां पूजया चैव ब्रह्मणानां च दानतः तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् तस्मात्पापमकृत्वैव वस्तव्यंस्सुखमिच्छता
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया
शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः असूयालुः परद्रोही चंडालद्विज उच्यते
पृथिवीपालको राजा इतरेक्षत्रिया मताः धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते