नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ततश्चोपरिभावेन कलास्संहृत्य वायुना
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत्
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत्
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत्
अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु
षडंगानि ततो न्यस्य जातिषट्कयुतानि च दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम्
यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना
एवं समासरूपेण कृत्वा देहात्मशोधनम् शिवभावमुपागम्य पूजयेत्परमेश्वरम्
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत्
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके इं ईं च नेत्रयोस्तद्वत् उं ऊं श्रवणयोस्तथा
ऋं ःं कपोलयोश्चैव ऌं ॡं नासापुटद्वये एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात्
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु
चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् टवर्गं च तवर्गं च पादयोरुभयोरपि
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम्
यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे
एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत्
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत्
ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात्
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः
हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः
पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत्
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः
पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि