वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः
तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम्
तदलाभे यथालाभं धारणीयमदूषितम् तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम्
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम्
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् अथवा शिवमेवैकं जपित्वैकादशाधिकम्
जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ प्रकुर्वीत करन्यासं करशोधनपूर्वकम्
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम्
यतीनां संहृतिन्यासो वनस्थानां तथैव च स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत्
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः
दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः
सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः
पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः
तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत्
निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया
नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ततश्चोपरिभावेन कलास्संहृत्य वायुना
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत्
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत्
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत्
अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु
षडंगानि ततो न्यस्य जातिषट्कयुतानि च दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम्
यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना