अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा आर्द्रेण शोधयेद्देहमापादतलमस्तकम्
आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते
स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम्
मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् करन्यासं ततः कृत्वा सकलीकृतविग्रहः
वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् वामनासापुटेनैव देवं संभावयेत्सितम्
अर्घमादाय देहस्थं सव्यनासापुटेन च कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम्
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम्
तत्र संपूजयेद्भानुं स्वकीयावरणैः सह स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये
पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम्
पूरयेद्गंधतोयेन रक्तचंदनयोगिना रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् अथवांजलिना तोयं सदर्भं मूलविद्यया
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये कृत्वा पुनः करन्यासं करशोधनपूर्वकम्
बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत्
या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ततो मूलेन सर्वांगमालभ्य वसनान्तरम्
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत्
पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा
वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः
तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम्
तदलाभे यथालाभं धारणीयमदूषितम् तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम्
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम्
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् अथवा शिवमेवैकं जपित्वैकादशाधिकम्