समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत्
हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत्
अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम्
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ
शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात्
दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे
अबाधे विजने देशे कुर्यादावश्यकं ततः कृत्वा शौचं विधानेन दंतधावनमाचरेत्
अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम्
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत्
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च
मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा
सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम्
सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत्
गोशृंगेण सदर्भेण पालाशेन दलेन वा पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा
उद्यानादौ गृहे चैव वर्धन्या कलशेन वा अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत्
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा आर्द्रेण शोधयेद्देहमापादतलमस्तकम्
आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते
स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम्
मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् करन्यासं ततः कृत्वा सकलीकृतविग्रहः
वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् वामनासापुटेनैव देवं संभावयेत्सितम्
अर्घमादाय देहस्थं सव्यनासापुटेन च कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम्
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम्