सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत्
हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः
तत्र तीरं प्रशस्तं हि मृगबृहस्पतौ शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः
तत्र स्नानोपवासेन पदं वैनायकं लभेत् चतुर्वींशमुखा पुण्या नर्मदा च महानदी
तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् तमसा द्वादशमुखा रेवा दशमुखा नदी
गोदावरी महापुण्या ब्रह्मगोवधनाशिनी एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी
कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी
तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा
तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा सरस्वती च पंपा च कन्याश्वेतनदी शुभा
एतासां तीरवासेन इंद्रलोकमवाप्नुयात् सह्याद्रिजा महापुण्या कावेरीति महानदी
सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः
शिवलोकप्रदा शैवास् तथा ऽभीष्टफलप्रदाः नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ
केदारोदकपानं च स्नानं च ज्ञानदं विदुः गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ
धर्मलोके दंतिलोके महाभोगप्रदं विदुः कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ
विष्णोर्वचनमहात्म्यात्सर्वाभीष्टप्रदं विदुः वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके
नर्मदायां नदीस्नानाद्विष्णुलोकम्वाप्नुयात् सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात्
गंगायां माघमासे तु तथाकुंभगते रवौ श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा
वंशद्वयपित्ःणां च कुलकोट्युद्धरं विदुः कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ
तत्तत्तीर्थे च तन्मासि स्नानमिंद्रपदप्रदम् गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः
तत्कालकृतपापस्य क्षयो भवति निश्चितम् रुद्रलोकप्रदान्येव संति क्षेत्राण्यनेकशः
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत्
सदाचारेण सद्वृत्त्या सदा भावनयापि च वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत्
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा
मानसं च तथा पापं तादृशं नाशयेद्द्विजाः मानसं वज्रलेपं तु कल्पकल्पानुगं तथा