अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते
अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम्
न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति
साधने विनियोगे च नित्ये नैमित्तिके तथा जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात्
शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत्
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा
मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत्
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम्
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा
प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम्
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत्
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत्
ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत्
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः शिवभावसमापन्नः शिवाचार्यं तमादिशेत्
अथालंकृत्य तं देवमाराध्य शिवमण्डले शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः
भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम्
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि अधिरोप्य यथान्यायमभिवंद्य समर्चयेत्
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः
एवं सर्वमनायासं शौचं क्षांतिं दयां तथा अस्पृहामप्यसूयां च यत्नेन च विभावयेत्
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् शिवकुंभानलादींश्च सदस्यानपि पूजयेत्
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् कृत्वा समयसंस्कारमभिषेकं विनाखिलम्