आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान्
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् तथैव तु गुणानेव पुनरस्योपपादयेत्
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम्
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत्
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम्
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा पूजां सावरणां शम्भोरासनानि च सन्दिशेत्
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम्
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात्
सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः
अतः परं प्रवक्ष्यामि साधकं नाम नामतः संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया
संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले
पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम्
तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत्
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः साधनं शिवयोगं च साधकाय समादिशेत्
तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः पुरतो विनियोगस्य मन्त्रसाधनमाचरेत्
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः
नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत्
शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः
अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः
देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम्
निवेद्य पायसं तस्मै समप्याराधनं क्रमात् प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात्
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् लक्षविंशतिकं वापि दशलक्षमथापि वा
ततश्च पायसाक्षारलवणैकमिताशनः अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत्
अलाभे पायसस्याश्नन्फलमूलादिकानि वा विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम्
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च शाकं पयो दधि घृतं मूलं फलमथोदकम्