उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् तत्र शंभुं समाराध्य मंडलस्थं सहांबया हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः कृता तस्मात्परं धाम गमयैनं तवाव्ययम्
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत्
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः भूतानि स्थितयोगेन यो जपेत्परमे शिवे
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत्
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत्
आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान्
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् तथैव तु गुणानेव पुनरस्योपपादयेत्
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम्
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत्
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम्
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा पूजां सावरणां शम्भोरासनानि च सन्दिशेत्
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम्
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात्
सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः
अतः परं प्रवक्ष्यामि साधकं नाम नामतः संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया
संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले
पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम्
तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत्
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः साधनं शिवयोगं च साधकाय समादिशेत्
तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः पुरतो विनियोगस्य मन्त्रसाधनमाचरेत्
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः