संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत्
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत्
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत्
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत्
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा बालार्कसदृशाकारां भासयंतीं दिशो दश
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत्
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत्
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत्
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत्
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत्
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत्
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम्
वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत्
ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत्
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम्
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् तत्र शंभुं समाराध्य मंडलस्थं सहांबया हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः कृता तस्मात्परं धाम गमयैनं तवाव्ययम्
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत्
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः भूतानि स्थितयोगेन यो जपेत्परमे शिवे
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत्
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत्