बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत्
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा पूजयेद्देवमीशानं जुहुयाच्च शिवानले
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम्
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम्
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् कृत्वात्मानं समादाय द्वादशांते निवेद्य च
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः जात्यैकया च मानुष्या योनयश्च चतुर्दश
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत्
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत्
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः
कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम्
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत्
पितामह त्वया नास्य यातुः शैवं परं पदम् प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम्
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह
संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत्
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत्
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत्
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत्
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा बालार्कसदृशाकारां भासयंतीं दिशो दश
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत्
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत्