प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम्
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम्
अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत्
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा
रेखात्रयं च परितो भस्मना तिलसर्षपैः कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत्
शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत्
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत्
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा पूजयेद्देवमीशानं जुहुयाच्च शिवानले
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम्
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम्
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् कृत्वात्मानं समादाय द्वादशांते निवेद्य च
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः जात्यैकया च मानुष्या योनयश्च चतुर्दश
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत्
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत्
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः
कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम्
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत्
पितामह त्वया नास्य यातुः शैवं परं पदम् प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम्
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह