विषयेन्द्रियदेहादिजनकं तस्य भावयेत् व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः
सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात्
ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः
शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन्
एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत्
देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः
शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत्
अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत्
तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम्
अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत्
प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम्
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम्
अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत्
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा
रेखात्रयं च परितो भस्मना तिलसर्षपैः कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत्
शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत्
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत्
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा पूजयेद्देवमीशानं जुहुयाच्च शिवानले
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम्
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम्
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् कृत्वात्मानं समादाय द्वादशांते निवेद्य च
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः जात्यैकया च मानुष्या योनयश्च चतुर्दश
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत्