यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् शिवाचार्येण समये तत्सर्वं शिरसा वहेत्
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम्
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् मंत्रश्चेति समासेन षडध्वा परिपठ्यते
निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः
शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः
आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः अनेकभेदसंपन्नः पदाध्वा समुदाहृतः
सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः
मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम्
न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् षड्विधस्याध्वनो रूपं न येन विदितं भवेत्
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा
यथावदवगम्यैव कुर्यादध्वविशोधनम् कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा
द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः
प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः
अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् पुरतः कल्पिते वाथ मंडले वर्णिमंडिते
स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः
नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम्
कृत्वा शिवानलैर्होमं प्रारभेत् यथा पुरा यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम्
हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा
हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ओंकारादनु हुंकारं ततो मूलं फडंतकम्
स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् तेषामाहुतयस्तिस्रो देया दीपनकर्मणि
मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम्
सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः चरणांगुष्ठपर्यंतमूर्ध्वकायस्य तिष्ठतः
लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित्
हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत्
चैतन्यं समुपादाय द्वादशांते निवेद्य च सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा
अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम्