ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः समदिश्येश्वरं रूपं योगमासनमादिशेत्
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत्
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम्
स एव दद्यान्नियतो यावन्मोहविपर्ययः तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः
ततः स समयो नाम भविष्यति शिवाश्रमे लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत्
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम्
प्रतिमा वापि देवस्य गूढदेहमथापि वा पूजाहोमजपध्यानसाधनानि च संभवे
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः आददीताज्ञया तस्य देशिकस्य न चान्यथा
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा
अतः परं शिवाचारमादिशेदस्य देशिकः भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् शिवाचार्येण समये तत्सर्वं शिरसा वहेत्
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम्
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् मंत्रश्चेति समासेन षडध्वा परिपठ्यते
निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः
शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः
आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः अनेकभेदसंपन्नः पदाध्वा समुदाहृतः
सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः
मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम्
न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् षड्विधस्याध्वनो रूपं न येन विदितं भवेत्
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा
यथावदवगम्यैव कुर्यादध्वविशोधनम् कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा
द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः
प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः
अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् पुरतः कल्पिते वाथ मंडले वर्णिमंडिते
स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः
नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम्