स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः आराध्य च महादेवं शिवहस्तं प्रविन्यसेत्
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम्
ततश्शिवानले देवं समभ्यर्च्य यथाविधि हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् नमस्कृत्य महादेवं नाडीसंधानमाचरेत्
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत्
संतर्पणाय मूलस्य तेनैवाहुतयो दश देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम्
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित्
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत्
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत्
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत्
नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत्
तमादाय तया नाड्या मंत्री संहारमुद्रया न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः
कुंभकेन तथा नाड्या रेचकेन यथा पुरा तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत्
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् हुत्वा ऽ ऽहुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम्
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः
अथापनुद्य स्नानांबु परिधाय सितांबरम् आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत्
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे संपूज्य मंडलं देवं करन्यासं समाचरेत्
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत्
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् सकलीकरणं कृत्वा मातृकान्यासवर्त्मना
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम्
प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत्
संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत्
स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात्
ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत्