अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः सर्वमंगलसंयुक्तः समाचरितनैत्यकः
महापूजां महेशस्य कृत्वा मण्डलमध्यतः शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत्
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत्
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् जपं च विधिवच्चान्ये शिवभक्तिपरायणाः
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः
पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया
प्रसीद देवदेवेश देहमाविश्य मामकम् विमोचयैनं विश्वेश घृणया च घृणानिधे
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः आनीयोपोषितं शिष्यं हविष्याशिनमेव वा
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम्
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा दर्भासने समासीनं विधायोदङ्मुखं शिशुम्
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया
पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम्
ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो
ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम्
स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः आराध्य च महादेवं शिवहस्तं प्रविन्यसेत्
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम्
ततश्शिवानले देवं समभ्यर्च्य यथाविधि हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् नमस्कृत्य महादेवं नाडीसंधानमाचरेत्
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत्
संतर्पणाय मूलस्य तेनैवाहुतयो दश देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम्
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित्
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत्