पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः
शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते गुरोरालोकनादेव स्पर्शात्संभाषणादपि
यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः मनसा यस्तु संस्कारः क्रियते योगवर्त्मना
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः स वक्ष्यते समासेन तस्य शक्यो न विस्तरः
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम्
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत्
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात्
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत्
वितानध्वजमालाभिर्विविधाभिरनेकशः वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम्
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता
केसराणि तदर्धानि शेषं चाष्टदलादिकम् द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम्
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम्
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत्
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम्
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम्
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा
तस्यासनारविंदस्य कल्पयेदुत्तरे दले अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम्
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् कृत्वा विधिवदीशस्य महापूजां समाचरेत्
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः सर्वमंगलसंयुक्तः समाचरितनैत्यकः
महापूजां महेशस्य कृत्वा मण्डलमध्यतः शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत्
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत्
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् जपं च विधिवच्चान्ये शिवभक्तिपरायणाः
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः