ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः
एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः
नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे
तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया अधिकारो भवत्येव कन्यायाः पितुराज्ञया शूद्राणां मर्त्यजातीनां पतितानां विशेषतः
तथा संकरजातीनां नाध्वशुद्धिर्विधीयते तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे
पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् अत्रानुलोमजाता ये युक्ता एव द्विजातिषु
तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता
सा भक्ताय प्रदातव्या नापराय विरोधिने दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम्
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता
कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् यथा नारायणं देवं तपसाराध्य पांडवान्
पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः
शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते गुरोरालोकनादेव स्पर्शात्संभाषणादपि
यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः मनसा यस्तु संस्कारः क्रियते योगवर्त्मना
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः स वक्ष्यते समासेन तस्य शक्यो न विस्तरः
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम्
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत्
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात्
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत्
वितानध्वजमालाभिर्विविधाभिरनेकशः वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम्
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता
केसराणि तदर्धानि शेषं चाष्टदलादिकम् द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम्
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम्
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत्
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम्
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम्
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा
तस्यासनारविंदस्य कल्पयेदुत्तरे दले अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम्
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् कृत्वा विधिवदीशस्य महापूजां समाचरेत्