तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः
यमश्च नियमाश्चैव नात्र कार्या विचारणा गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः
श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा
असमक्षं समक्षं वा तस्य कार्यं समाचरेत् इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः
गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः
तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः संवित्संजननं तत्त्वं परमानंदसंभवम्
तत्तत्त्वं विदितं येन स एवानंददर्शकः न पुनर्नाममात्रेण संविदारहितस्तु यः
अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम्
सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते
तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत्
न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते
वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि
तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम्
सर्वाभयप्रदातारं करुणाक्रांतमानसम् तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा
तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत्
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च भूषणानि च वासांसि यानशय्यासनानि च
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम्
स एव जनको माता भर्ता बन्धुर्धनं सुखम् सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत्
निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत्
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः
गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम्
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि
आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि
अहिंसका दयावंतो नित्यमुद्युक्तचेतसः अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः