य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम्
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम्
हन्त ते कथयिष्यामि सर्वपापविशोधनम् संस्कारं परमं पुण्यं शिवेन पतिभाषितम्
सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः संस्कारः कथ्यते तेन षडध्वपरिशोधनम्
दीयते येन विज्ञानं क्षीयते पाशबंधनम् तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते
शांभवी चैव शाक्ती च मांत्री चैव शिवागमे दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी
सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः
यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका
शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः
शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति शैवधर्मानुसारस्य तन्मूलत्वात्समासतः
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः
तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत्
यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत्
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी
आनंदबोधयोर्लिंगमंतःकरणविक्रियाः यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः
शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत्
यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः शिवविद्या गुरूणां च पूजया सदृशं फलम्
सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत्
श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते
गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम्
पापिनां च यथा संगात्तत्पापात्पतितो भवेत् यथेह वह्निसंपर्कान्मलं त्यजति कांचनम्
तथैव गुरुसंपर्कात्पापं त्यजति मानवः यथा वह्निसमीपस्थो घृतकुम्भो विलीयते
तथा पापं विलीयेत ह्याचार्यस्य समीपतः यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत्
तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत्