एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् अयुतं च सहस्रं च शतमेकं विना भवेत्
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम्
एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम्
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया पुष्पारामादिकं वापि तथा संमार्जनादिकम्
शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः
लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके
दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि
पुण्यक्षेत्रे स्थिता वापी कूपाद्यपुष्कराणि च शिवगंगेति विज्ञेयं शिवस्य वचनं यथा
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा
दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा
सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम्
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः सर्वं कृतं कामनया सद्यः फलमवाप्नुयात्
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात्
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि
कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि शिवपूजा विशेषेण तत्काले ऽभीष्टसिद्धिदा
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा
उक्तेन केनचिद्वापि अधिकारविभेदतः सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात्
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत्
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान्
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि
पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति
तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः
परिग्रहादृषीणां च देवानां परिग्रहात् स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि
तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः
अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात्
क्षेत्रे पापस्य करणं दृढं भवति भूसुराः पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत्
येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः