न लग्नतिथिनक्षत्रवारयोगादयः प्रिये अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः
न कदाचिन्न कस्यापि रिपुरेष महामनुः सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति
सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः
असाधितस्साधितो वा सिध्यत्वेन न संशयः श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ
आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः
मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत
यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः
ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात्
तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु सहसा विनियुंजीत तस्मादेष महाबलः
एवं साक्षान्महादेव्यै महादेवेन शूलिना हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा
य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम्
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम्
हन्त ते कथयिष्यामि सर्वपापविशोधनम् संस्कारं परमं पुण्यं शिवेन पतिभाषितम्
सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः संस्कारः कथ्यते तेन षडध्वपरिशोधनम्
दीयते येन विज्ञानं क्षीयते पाशबंधनम् तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते
शांभवी चैव शाक्ती च मांत्री चैव शिवागमे दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी
सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः
यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका
शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः
शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति शैवधर्मानुसारस्य तन्मूलत्वात्समासतः
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः
तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत्
यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत्
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी
आनंदबोधयोर्लिंगमंतःकरणविक्रियाः यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः
शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत्