त्रिंशदक्षैः कृता माला धनदा जपकर्मणि सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत्
पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा
अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा
चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत्
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह
अंगुष्ठेन विना जप्यं कृतं तदफलं यतः गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम्
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च
विप्राणां च गवां चैव सन्निधौ शस्यते जपः तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम्
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् अनासनः शयाने वा गच्छन्नुत्थित एव वा
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा
यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत्
किमत्र बहुनोक्तेन समासेन वचः शृणु सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते
आचारः परमो धर्म आचारः परमं धनं आचारः परमा विद्या आचारः परमा गतिः
आचारहीनः पुरुषो लोके भवति निंदितः परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत्
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः तस्य तेन समाचारः सदाचारो न चेतरः
सद्भिराचरितत्वाच्च सदाचारः स उच्यते सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम्
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत्
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः
सदाचारविहीनस्य पतितस्यान्त्यजस्य च पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः
अनाचारवतां पुंसामविशुद्धषडध्वनाम् अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् सिध्यत्येव न संदेहो नापरस्य तु कस्यचित्