जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः
प्राणायामसमायुक्तस्सगर्भो जप उच्यते आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत्
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते
सगर्भादपि साहस्रं सध्यानो जप उच्यते एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः
अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम्
शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत्
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत्
पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा
अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा
चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत्
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह
अंगुष्ठेन विना जप्यं कृतं तदफलं यतः गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम्
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च
विप्राणां च गवां चैव सन्निधौ शस्यते जपः तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम्
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् अनासनः शयाने वा गच्छन्नुत्थित एव वा
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा
यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत्
किमत्र बहुनोक्तेन समासेन वचः शृणु सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते
आचारः परमो धर्म आचारः परमं धनं आचारः परमा विद्या आचारः परमा गतिः
आचारहीनः पुरुषो लोके भवति निंदितः परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत्