वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम्
एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम्
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च
अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि
स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम्
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम्
एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम्
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् अनन्यस्तत्परो भूत्वा स याति परमां गतिम्
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत्
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च
विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत्
उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् अधमं वाचिकं प्राहुरागमार्थविशारदाः
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः
जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः
प्राणायामसमायुक्तस्सगर्भो जप उच्यते आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत्
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते
सगर्भादपि साहस्रं सध्यानो जप उच्यते एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः
अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम्
शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत्