ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम्
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम्
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता सर्वजातस्य सर्वस्य बीजभूता सनातनी
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका तप्तचामीकरप्रख्या पीनोन्नतपयोधरा
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा पद्मोत्पलकरा सौम्या वरदाभयपाणिका
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता सितपद्मासनासीना नीलकुंचितमूर्धजा
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत्
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् देवता शिव एवाहं मन्त्रस्यास्य वरानने
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः
गायत्र्यनुष्टुप् त्रिष्टुप् च छंदांसि बृहती विराट् इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम्
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा नामान्यस्य विजानीयाच्छैवं मे हृदयं महत्
नकारश्शिर उच्येत मकारस्तु शिखोच्यते शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते
यकारो ऽस्त्रं नमस्स्वाहा वषट् हुंवौषडित्यपि फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः आवयोरर्चनं कुर्याज्जपहोमादिकं तथा
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति यथाशक्ति यथासंपद्यथायोगं यथारति
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता येन केनापि वा देवि पूजा मुक्तिं नयिष्यते
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा
तथापि मम भक्ता ये नात्यंतविवशाः पुनः तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः
तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् यं विना निष्फलं जाप्यं येन वा सफलं भवेत्
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम्
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम्
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् जापितं सद्गुणोपेतं ध्यानयोगपरायणम्
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः वाचा च मनसा चैव कायेन द्रविणेन च
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च
भूषणानि च वासांसि धान्यानि च धनानि च एतानि गुरवे दद्याद्भक्त्या च विभवे सति