सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् मुनीन्दश ससर्जादौ मानसानमितौजसः
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः मत्पुत्राणां महादेव शक्तिं देहि महेश्वर
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये
स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम्
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम्
ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः
मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन्
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम्
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये
ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम्
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम्
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता सर्वजातस्य सर्वस्य बीजभूता सनातनी
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका तप्तचामीकरप्रख्या पीनोन्नतपयोधरा
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा पद्मोत्पलकरा सौम्या वरदाभयपाणिका
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता सितपद्मासनासीना नीलकुंचितमूर्धजा
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत्
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् देवता शिव एवाहं मन्त्रस्यास्य वरानने
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः
गायत्र्यनुष्टुप् त्रिष्टुप् च छंदांसि बृहती विराट् इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम्
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा नामान्यस्य विजानीयाच्छैवं मे हृदयं महत्
नकारश्शिर उच्येत मकारस्तु शिखोच्यते शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते
यकारो ऽस्त्रं नमस्स्वाहा वषट् हुंवौषडित्यपि फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः आवयोरर्चनं कुर्याज्जपहोमादिकं तथा
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति यथाशक्ति यथासंपद्यथायोगं यथारति