तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्
अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात्
इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः
कलौ कलुषिते काले दुर्जये दुरतिक्रमे अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये
तदोपदेशे विहते गुरुशिष्यक्रमे गते केनोपायेन मुच्यंते भक्तास्तव महेश्वर
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः दूषितानां कृतघ्नानां निंदकानां छलात्मनाम्
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् मम पञ्चाक्षरी विद्या संसारभयतारिणी
मयैवमसकृद्देवि प्रतिज्ञातं धरातले पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा कर्मायोगेन यत्कर्म कृतं च नरकाय हि ततः कथं विमुच्येत पतितो विद्यया ऽनया
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा
समंत्रकं मां पतितः पूजयेद्यदि मोहितः नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात्
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः पूजयेन्मां स मुच्येत नात्र कार्या विचारणा
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः पूजयेत्पतितो वापि मूढो वा मुच्यते नरः
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत्
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात्
किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत्
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः
गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः तदा नारायणश्शेते देवो मायामयीं तनुम्
आस्थाय भोगिपर्यंकशयने तोयमध्यगः तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः