तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः
स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम्
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते
संस्कृतेनापि किं तेन मृदुना ललितेन वा अविद्यारागवाक्येन संसारक्लेशहेतुना
यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम्
बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित्
सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित्
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा
शिवज्ञानानि यावंति विद्यास्थानापि यानि च षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः
किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः
तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्
अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात्
इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः
कलौ कलुषिते काले दुर्जये दुरतिक्रमे अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये
तदोपदेशे विहते गुरुशिष्यक्रमे गते केनोपायेन मुच्यंते भक्तास्तव महेश्वर
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः दूषितानां कृतघ्नानां निंदकानां छलात्मनाम्
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् मम पञ्चाक्षरी विद्या संसारभयतारिणी
मयैवमसकृद्देवि प्रतिज्ञातं धरातले पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा कर्मायोगेन यत्कर्म कृतं च नरकाय हि ततः कथं विमुच्येत पतितो विद्यया ऽनया
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा
समंत्रकं मां पतितः पूजयेद्यदि मोहितः नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात्
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः पूजयेन्मां स मुच्येत नात्र कार्या विचारणा
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः पूजयेत्पतितो वापि मूढो वा मुच्यते नरः
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते