ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन
तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत्
नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा
तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् येन केनाप्युपायेन शिवे चित्तं निवेशयेत्
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् परत्रेह च सर्वत्र निर्वृतिः परमा भवेत्
इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः स तस्मादधिगंतव्यः परावरविभूतये
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु
वेदे शिवागमे चायमुभयत्र षडक्षरेः सर्वेषां शिवभक्तानामशेषार्थसाधकः
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम्
नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम्
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम्
तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत्
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत्
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च प्रधानपरमाण्वादि यावत्किंचिदचेतनम्
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात्
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा
तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः अस्ति नाथः परित्राता पुंसां संसारसागरात्
आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः
एतावत्तु शिवज्ञानमेतावत्परमं पदम् यदोंनमश्शिवायेति शिववाक्यं षडक्षरम्
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः
लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत्
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः