अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम्
ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि
अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः एकादश्यां च विधिवदुपवासोममार्चनम्
इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम्
तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि शूद्राणामथ नारीणां धर्म एष सनातनः
ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः
अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः
विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि
तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात्
नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् न विधिर्न निषेधश्च तेषां मम यथा तथा
तथेह परिपूर्णस्य साध्यं मम न विद्यते तथैव कृतकृत्यानां तेषामपि न संशयः
मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः
ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् तथा नराणामन्येषां तन्नियोगः प्रवर्तकः
ममाज्ञाधारभावेन सद्भावातिशयेन च तदालोकनमात्रेण सर्वपापक्षयो भवेत्
प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः
कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः
स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः
यथायोग्निसमावेशान्नायो भवति केवलम् स तथैव मम सान्निध्यान्न ते केवलमानुषाः
हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् प्राकृतानिव मन्वानो नावजानीत पंडितः
अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत्
ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम्
अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम्
अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् मयि चित्तसमासंगो येन केनापि हेतुना
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः
विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः सेतिहासपुराणानि विद्या व्याख्यानविस्तरः
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः
गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः
साधनं शिवमंत्राद्यं साध्यं शिवसमानता षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते
प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत्
रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् न कर्म करणीयं हि बहिस्तस्य महात्मनाः