फलानपेक्षया येषां मनो मत्प्रवणं भवेत् प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः
प्राक् संस्कारवशादेव ये विचिंत्य फलाफले विवशा मां प्रपद्यंते मम प्रियतमा मताः
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ममापि लाभस्तल्लाभान्नापरः परमेश्वरि
मदनुग्रहतस्तेषां भावो मयि समर्पितः फलं परमनिर्वाणं प्रयच्छति बलादिव
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम्
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम्
मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ममानुस्मरणं नित्यं यश्च मामुपजीवति
एवमष्टविधं चिह्नं यस्मिन् म्लेच्छे ऽपि वर्तते स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम्
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् विदुषां द्विजमुख्यानां वर्णधर्मसमासतः
त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् दानमीश्ररभावश्च दया सर्वत्र सर्वदा
सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम्
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये
सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् तथा पर्युषितान्नस्य यावकस्य विशेषतः
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः
क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम्
सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम्
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः वैश्यस्य च विशेषेण मया नात्र विधीयते
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम्
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च
सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् सदास्त्रधारणं चैव भस्मकंचुकधारणम्
राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते
शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते उद्यानकरणं चैव मम क्षेत्रसमाश्रयः
धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम्
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत्
या नारी भर्तृशुश्रूषां विहाय व्रततत्परा सा नारी नरकं याति नात्र कार्या विचारणा