प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत्
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात्
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम्
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते मन्नामनिरता वाणी वाङ्मता खलु नेतरा
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ममोपचारनिरतः कायः कायो न चेतरः
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम्
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम्
ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम्
बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत्
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात्
शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् न भावरहितं देवि विप्रलंभैककारणम्
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते
भावैकात्मा क्रिया देवि मम धर्मस्सनातनः मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित्
फलोद्देशेन देवेशि लघुर्मम समाश्रयः फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः
फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् भावानुरूपफलदस्तस्याप्यहमनिन्दिते
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः
प्राक् संस्कारवशादेव ये विचिंत्य फलाफले विवशा मां प्रपद्यंते मम प्रियतमा मताः
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ममापि लाभस्तल्लाभान्नापरः परमेश्वरि
मदनुग्रहतस्तेषां भावो मयि समर्पितः फलं परमनिर्वाणं प्रयच्छति बलादिव
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम्
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम्
मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ममानुस्मरणं नित्यं यश्च मामुपजीवति
एवमष्टविधं चिह्नं यस्मिन् म्लेच्छे ऽपि वर्तते स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम्
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति