अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः
मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः
तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत्
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत्
ममावतारा हि शुभे योगाचार्यच्छलेन तु सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत्
सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि चतुष्पादः समाख्यातो मम धर्मस्सनातनः
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते
अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम्
विजितेंद्रियवर्गस्य यमेन नियमेन च पूर्वपापहरो योगो विरक्तस्यैव कथ्यते
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते
योगज्ञः पतितो वापि मुच्यते नात्र संशयः दया कार्याथ सततमहिंसा ज्ञानसंग्रहः
सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः अध्यापनं चाध्ययनं यजनं याजनं तथा
ध्यानमीश्वरभावश्च सततं ज्ञानशीलता य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये
अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये
प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत्
फलकामनया कर्मकरणात्प्रतिबध्यते न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत्
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत्
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात्
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम्
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते मन्नामनिरता वाणी वाङ्मता खलु नेतरा
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ममोपचारनिरतः कायः कायो न चेतरः
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम्