एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् पञ्चाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा
बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा एवं लिंगे च बेरे च पूजा शिवपदप्रदा
पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा
जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम्
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम्
यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम्
एवं स्थाप्य महालिंगं पूजयेदुपचारकैः नित्यपूजा यथा शक्तिध्वजादिकरणं तथा
इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् अथवा चरलिंगं तु षोडशैरुपचारकैः
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च
तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम्
नीराजनं च तांबूलं नमस्कारो विसर्जनम् अथवा ऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम्
अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि स्थापिते ऽपूर्वके लिंगे सोपचारं यथा तथा
पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम्
लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः
अंगुष्ठादावपि तथा पूजामिच्छंति केचन लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित्
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः अथवा लिंगदानं वा लिंगमौल्यमथापि वा
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् अथवा प्रणवं नित्यं जपेद्दशसहस्रकम्
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् जपकाले मकारांतं मनःशुद्धिकरं भजेत्
समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् समानप्रणवं चेमं बिंदुनादयुतं विदुः
अथ पञ्चाक्षरं नित्यं जपेदयुतमादरात् संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम्
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये
कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते
द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि
विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन पञ्चकोटिजपं कृत्वा सदा शिवसमो भवेत्
एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक्
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् सहस्रं तु सहस्राणां सहस्रेण दिनेन हि
जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः