एते शिष्या महेशस्य योगाचार्यस्वरूपिणः संख्या च शतमेतेषां सह द्वादशसंख्यया
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः
फलमूलाशनप्रायाः प्राणायामपरायणाः शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् स याति शिवसायुज्यं नात्र कार्या विचारणा
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर षडाननसमप्रख्य सर्वज्ञाननिधे गुरो
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर
अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम्
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः
साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् भवभक्तस्य युक्तस्य तव कल्याणचेतसः
महीधरवरे दिव्ये मंदरे चारुकंदरे देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत्
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत्
ततः स्वमंकमारोप्य देवीं देववरोरहः अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम्
अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम्
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् चामरासक्तहस्ताश्च देवीं देवं सिषेविरे
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः त्राणाय च नृणां लोके ये शिवं शरणं गताः
तदावसरमालोक्य सर्वलोकमहेश्वरी भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम्
केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम्
न कर्मणा न तपसा न जपैर्नासनादिभिः न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च
साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह
स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित्
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम्
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम्
वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः
वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम्