युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च सुपालको गौतमश्च तथा वेदशिरा मुनिः
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः जटामाली चाट्टहासो दारुको लांगुली तथा
महाकालश्च शूली च डंडी मुण्डीश एव च सविष्णुस्सोमशर्मा च लकुलीश्वर एव च
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात्
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम्
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा
विकोशश्च विकेशश्च विपाशः पाशनाशनः सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः
सनत्कुमारस्सनकः सनंदश्च सनातनः सुधामा विरजाश्चैव शंखश्चांडज एव च
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च
पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः
लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च
उशिजो बृहदश्वश्च देवलः कविरेव च शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः
अक्षपादः कणादश्च उलूको वत्स एव च कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः संख्या च शतमेतेषां सह द्वादशसंख्यया
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः
फलमूलाशनप्रायाः प्राणायामपरायणाः शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् स याति शिवसायुज्यं नात्र कार्या विचारणा
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर षडाननसमप्रख्य सर्वज्ञाननिधे गुरो
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर