सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद
नमश्शिवाय शांताय सगणायादिहेतवे रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम्
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम्
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम्
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी
तया स चोदितो देवो देव्या चन्द्रविभूषणः अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम्
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः मयागस्त्येन गुरुणा दधीचेन महर्षिणा
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम्
ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः शततेजास्स्वयं धर्मो नारायण इति श्रुतः
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः कृतंजयो भरद्वाजो गौतमः कविरुत्तमः
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात्
लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः योगाचार्यावताराश्च तथा शिष्येषु शूलिनः
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः
तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च सुपालको गौतमश्च तथा वेदशिरा मुनिः
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः जटामाली चाट्टहासो दारुको लांगुली तथा
महाकालश्च शूली च डंडी मुण्डीश एव च सविष्णुस्सोमशर्मा च लकुलीश्वर एव च
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात्
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम्
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा
विकोशश्च विकेशश्च विपाशः पाशनाशनः सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः
सनत्कुमारस्सनकः सनंदश्च सनातनः सुधामा विरजाश्चैव शंखश्चांडज एव च