सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः तमपृच्छंस्ततो देवाः को भवानिति मोहिताः
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन अहमेव जगत्सर्वं तर्पयामि स्वतेजसा
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः
व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम्
तामपश्यन्महेशस्य वामतो वामलोचनाम् ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम्
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम्
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि देवो ऽपि देवानालोक्य घृणया वृषभध्वजः
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् अर्थमहत्तमं देवाः पप्रच्छुरिममादरात्
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः
ततः सस्मितमालोक्य देवीं देववरोहरः स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम्
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम्
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् पञ्चभूतानि शेषाणि तन्मयं च चराचरम्
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै
सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद
नमश्शिवाय शांताय सगणायादिहेतवे रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम्
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम्
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम्
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी
तया स चोदितो देवो देव्या चन्द्रविभूषणः अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम्