अभक्तानामबुद्धीनामयुक्तानामगोचरम् अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम्
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः
शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया कथितं परमेशेन तत्र पूजा कथं प्रभोः
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत
शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम्
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् कथयिष्ये समासेन तस्य शक्यो न विस्तरः
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम्
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत तं जायमानं जनको देवः प्रापश्यदाज्ञया
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक्
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः तमपृच्छंस्ततो देवाः को भवानिति मोहिताः
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन अहमेव जगत्सर्वं तर्पयामि स्वतेजसा
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः
व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम्
तामपश्यन्महेशस्य वामतो वामलोचनाम् ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम्
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम्
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि देवो ऽपि देवानालोक्य घृणया वृषभध्वजः
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् अर्थमहत्तमं देवाः पप्रच्छुरिममादरात्
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः
ततः सस्मितमालोक्य देवीं देववरोहरः स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम्
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम्
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् पञ्चभूतानि शेषाणि तन्मयं च चराचरम्
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै