किं कारणं कुतो जाता जीवामः केन वा वयम् कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम्
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा
अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते
तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम्
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा
यः कारणान्यशेषाणि कालात्मसहितानि च अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति
ततः प्रसादयोगेन योगेन परमेण च दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः
तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः
न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता
देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः
गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी
पतितो वापि धर्मात्मा पंडितो मूढ एव वा प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः प्रसीदति न संदेहो विगृह्य विविधान्मलान्
प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति
प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः
प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा
तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत्
परया च तया भक्त्या प्रसादो लभ्यते परः प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः
अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् नयोनियंत्रपीडायै भवेन्नैवात्र संशयः
सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः
शिवरूपादिचिंता या सा सेवा मानसी स्मृता जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी
सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना
तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम्
जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते
श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम्
तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये