अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा
सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा
महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः
सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः
वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा असच्च सच्च यत्किंचित्तया सर्वमिदं ततम्
सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् मोहयत्यप्रयत्नेन मोचयत्यपि लीलया
अनया सह सर्वेशः सप्तविंशप्रकारया विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः संशयाविष्टमनसो विस्मृशंति यथातथम्
किं कारणं कुतो जाता जीवामः केन वा वयम् कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम्
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा
अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते
तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम्
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा
यः कारणान्यशेषाणि कालात्मसहितानि च अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति
ततः प्रसादयोगेन योगेन परमेण च दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः
तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः
न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता
देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः
गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी
पतितो वापि धर्मात्मा पंडितो मूढ एव वा प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः प्रसीदति न संदेहो विगृह्य विविधान्मलान्
प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति
प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः
प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा
तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत्