अंबिकापतिरीशानः पिनाकी वृषवाहनः एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः
स पुंविशेषः परमो भगवानन्तकांतकः चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम्
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम्
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् परानुग्रह एवास्य फलं सर्वस्य कर्मणः
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः
शंभो प्रणववाच्यस्य भवनात्तज्जपादपि या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः
तस्मादेकाक्षरं देवमाहुरागमपारगाः वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि अकारश्चाप्युकारश्च मकारो नाद इत्यपि
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः
मकारः पुरुषो बीजं तमः संहारको हरः नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा अभिधाय शिवात्मानं बोधयत्यर्धमात्रया
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्
शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा एकानेकस्य रूपेण भाति भानोरिव प्रभा
अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा
सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा
महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः
सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः
वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा असच्च सच्च यत्किंचित्तया सर्वमिदं ततम्
सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् मोहयत्यप्रयत्नेन मोचयत्यपि लीलया
अनया सह सर्वेशः सप्तविंशप्रकारया विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः संशयाविष्टमनसो विस्मृशंति यथातथम्