ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते अरूपं केचिदाहुर्वै रूपवंतं परे विदुः
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे
केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे
केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन परमेके तमेवाहुरपरं च तथा परे
एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात्
ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ते हि जानंत्ययत्नेन शिवं परमकारणम्
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम्
नशिवस्याणवो बंधः कार्यो मायेय एव वा प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन
न च कालः कला चैव न विद्या नियतिस्तथा न रागो न च विद्वेषः शंभोरमिततेजसः
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले
आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः
न तस्य कारणं कर्ता नादिरंतस्तथांतरम् न कर्म करणं वापि नाकार्यं कार्यमेव च
नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा न पतिर्न गुरुस्त्राता नाधिको न समस्तथा
न जन्ममरणे तस्य न कांक्षितमकांक्षितम् न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम्
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन कल्याणं सकलं चास्ति परमात्मा शिवो यतः
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः
अंबिकापतिरीशानः पिनाकी वृषवाहनः एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः
स पुंविशेषः परमो भगवानन्तकांतकः चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम्
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम्
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् परानुग्रह एवास्य फलं सर्वस्य कर्मणः